तद्वहति इत्येव। हलसीरशब्दाभ्यां द्वितीयास्मर्थाभ्यां वहति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हलं वहति हालिकः। सैरिकः।
शकटादणेवोत्सर्गः कत्र्तव्यः। एवञ्च वाक्यं करिष्यामः; यता--- रथस्य वोञा रथ्य इति। न तत् विधीयते; तत्र प्रत्ययविधाने "द्विगोर्लुगनपत्ये"
४।१।८८ इत्यनेन लुक् प्राप्नोति। अनेन पुनर्न प्राप्नोति,
कस्मात्? "प्रागादीव्यतोऽण्"
४।१।८३ #इत्यधिकारात्। ननु च क्रियामाणेऽपीह द्विगोरण् प्रत्ययो न प्राप्नोति, "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति" (व्या।प।
८९) इति? न; एतदेव हि "शकटादण्"
४।४।८० इत्यवमादिकं ज्ञापकं भवति तदन्तविधेरिति। तेन द्वैहलिकः, द्वैशकटः , द्वैसीरिक इत्येवमादिकं सिद्धं भवति॥
हलसीरात्। ननु "तस्येद"मित्युपक्रमे "हलसीताट्ठ"गिति पठितम्। तथा च तेनैव शैषिकेण हालिकः सैरिक इति सिद्धौ किमनेनेति चेत्। सत्यम्। आरम्भसामथ्र्यादत्रापि तदन्तविधिः। तेन द्वैहलिको द्वैसीरिक इति भवति, शैषिके ठकि तु प्राग्दीव्यतीयो लुक् स्यात्। जायते अस्यां गर्भ इति व्युत्पत्तिमाश्रित्य आह--।